दुर्दिनम्

सुधाव्याख्या

मेघच्छन्ने मेघान्धकारिते । अह्नीति रात्रेरप्युपलक्षणम् । रात्रावपि दुर्दिनम् । ‘दुर्दिनं जलदध्वान्तम्’ इति रत्नकोषः । दुर्निन्दितं दिनम् । ‘बादलं दुर्दिने मेघे’ इति ।