अमरकोशः


श्लोकः

द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः । कला तु षोडशो भागो बिम्बोऽस्त्री मण्डलं त्रिषु ॥ १५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 द्विजराज द्विजराजः पुंलिङ्गः द्विजानां राजा । तत्पुरुषः समासः अकारान्तः
2 शशधर शशधरः पुंलिङ्गः शशस्य धर: । तत्पुरुषः समासः अकारान्तः
3 नक्षत्रेश नक्षत्रेशः पुंलिङ्गः नक्षत्राणामीशः। तत्पुरुषः समासः अकारान्तः
4 क्षपाकर क्षपाकरः पुंलिङ्गः क्षपां करोति । तत्पुरुषः समासः अकारान्तः
5 कला कला स्त्रीलिङ्गः कलयति । अच् कृत् आकारान्तः
6 बिम्बः विम्बः पुंलिङ्गः, नपुंसकलिङ्गः वेति शोभते । बन् उणादिः
7 मण्डल मण्डलम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मण्डयति, मण्ड्यते, वा । कलच् उणादिः अकारान्तः