मण्डलम्

सुधाव्याख्या

मण्डयति, मण्ड्यते, वा । ‘मडि भूषायाम्' (चु० प० से०) । वृषादित्वात् (उ० १.१०६) कलच् । गौरादित्वात् (४.१.४१) डीष् । मण्डली । 'स्यान्मण्डलं द्वादशराजके च देशे च बिम्बे च कदम्बके च । कुष्ठप्रभेदेऽप्यु पसूर्यकेऽपि भुजङ्गभेदे शुनि मण्डलः स्यात् इति विश्वः ।