कला

सुधाव्याख्या

कलेति । चन्द्रस्य षोडशो भागः । कलयति । ‘कल संख्याने' (चु० उ० से०) पचाद्यच् (३.१.१३४) । कल्यते वा । पुसि-' (३.३.११८) इति घः । (कलं त्वजीर्णरेतसोः । अव्यक्तमधुरध्वाने) कला स्यादंशशिल्पयोः । (कलने मूलरै वृद्धौ षोडशांशे विधोरपि') इति हैम: ।