अमरकोशः


श्लोकः

शोणो हिरण्यवाहः स्यात्कुल्याल्पा कृत्रिमा सरित् । शरावती वेत्रवती चान्द्रभागी सरस्वती ॥ ३४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शोण शोणः पुंलिङ्गः शोणति । अच् कृत् अकारान्तः
2 हिरण्यवाह हिरण्यवाहः पुंलिङ्गः हिरण्यं वाहावस्य ॥ अण् कृत् अकारान्तः
3 कुल्या कुल्या स्त्रीलिङ्गः कुले प्राणिगणे कुटुम्बे दाम्पत्ये वा साधुः । यत् तद्धितः आकारान्तः
4 शरावती शरावती स्त्रीलिङ्गः शराः सन्त्यस्याम् । मतुप् तद्धितः ईकारान्तः
5 वेत्रवती वेत्रवती स्त्रीलिङ्गः वेत्रमस्त्यस्याम् । मतुप् तद्धितः ईकारान्तः
6 चन्द्रभागा चन्द्रभागा स्त्रीलिङ्गः चन्द्रभागयोः पर्वतयोरियम् । अण् तद्धितः आकारान्तः
7 सरस्वती सरस्वती स्त्रीलिङ्गः सरांसि सन्त्यस्याम् । मतुप् तद्धितः ईकारान्तः