चन्द्रभागा

सुधाव्याख्या

चन्द्रभागयोः पर्वतयोरियम् । तत्रभवत्वात् ’तस्येदम्’ (४.३.१२०) इत्यण् । 'टिड्ढा' (४.१.१५) इति ङीप् प्राप्तः चन्द्रभागान्नद्याम्' (४.१.४५) इति बाह्वादिगणसूत्रान्न भवति । स्वररूपयोरविशेषात् । 'तापी तु तपती सैत्या, चान्द्रभागी तु चन्द्रिका । चान्द्रभागा, शारदा तु कश्मीरेषु सरस्वती’ इति शब्दार्णवः । संज्ञापूर्वकत्वाद्वृद्ध्यभावः । ‘चन्द्रभागा चान्द्रभागा चान्द्रभागी च सा मता । चन्द्रभागी च सैवोक्ता ’ इति द्विरूपकोषः ।