अमरकोशः


श्लोकः

गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा । भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि ॥ ३१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गङ्गा गङ्गा स्त्रीलिङ्गः गङ्गेति । गन् उणादिः आकारान्तः
2 विष्णुपदी विष्णुपदी स्त्रीलिङ्गः विष्णुः पदं स्थानं यस्या: । बहुव्रीहिः समासः ईकारान्तः
3 जह्नुतनया जह्नुतनया स्त्रीलिङ्गः जह्नो राजर्षेस्तनया ॥ आकारान्तः
4 सुरनिम्नगा सुरनिम्नगा स्त्रीलिङ्गः सुराणां निम्नगा । आकारान्तः
5 भागीरथी भागीरथी स्त्रीलिङ्गः भगीरथस्येयम् । अण् तद्धितः ईकारान्तः
6 त्रिपथगा त्रिपथगा स्त्रीलिङ्गः त्रीन् पथो गच्छति । डः कृत् आकारान्तः
7 त्रिस्रोतम् त्रिस्रोतम् स्त्रीलिङ्गः त्रीणि स्रोतांसि यस्याः मकारान्तः
8 भीष्मसू भीष्मसूः स्त्रीलिङ्गः भीष्मं सूते । क्विप् कृत् ऊकारान्तः