त्रिपथगा

सुधाव्याख्या

त्रीन् पथो गच्छति । ड: (वा० ३.२.४८) । यद्वा त्रयाणां पथां समाहारः त्रिपथम् । तेन गच्छति । ड: (३.२.४८) ॥


प्रक्रिया

धातुः - गमॢँ गतौ


गम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
त्रिपथ + शस् + गम् + ड – अन्यत्रापि दृश्यत इति वक्तव्यम् (3.2.48) । वार्तिकम् ।
त्रिपथ + गम् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
त्रिपथ + ग् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
त्रिपथग + टाप् - अजाद्यतष्टाप्‌ 4.1.4
त्रिपथग + आ - चुटू 1.3.7, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
त्रिपथगा - अकः सवर्णे दीर्घः 6.1.101
त्रिपथगा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
त्रिपथगा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
त्रिपथगा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68