अमरकोशः


श्लोकः

नेमिस्त्रिकास्य वीनाहो मुखबन्धनमस्य यत् । पुष्करिण्यां तु खातं स्यादखातं देवखातकम् ॥ २७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नेमी नेमिः स्त्रीलिङ्गः मिः कृत् ईकारान्तः
2 त्रिका त्रिका स्त्रीलिङ्गः तिस्रोऽस्रयोऽस्याः । कन् तद्धितः आकारान्तः
3 वीनाह वीनाहः पुंलिङ्गः विनह्यतेऽनेन । घञ् कृत् अकारान्तः
4 पुष्करिणी पुष्करिणी स्त्रीलिङ्गः पुष्कराणि सन्त्यस्याम् । इनिः तद्धितः ईकारान्तः
5 खात खातम् नपुंसकलिङ्गः अखानि । क्तः कृत् अकारान्तः
6 अखात् अखातम् पुंलिङ्गः, नपुंसकलिङ्गः खाताद्भिन्नम् ॥‘ नञ् समासः समासः तकारान्तः
7 देवखातक देवखातकम् पुंलिङ्गः, नपुंसकलिङ्गः देवेन खातम् ॥ तत्पुरुषः समासः समासः अकारान्तः