वीनाहः

सुधाव्याख्या

वीनाह इति । विनह्यतेऽनेन । 'णह बन्धने’ (दि० उ० अ०) । हलश्च’ (३.३.१२१) इति घञ् । उपसर्गस्य घञि’ (६.३.१२२) इति दीर्घः । (१) कूपमुखे इष्टकादिभिर्वद्धस्य एकम् ॥