त्रिका

सुधाव्याख्या

तिस्रोऽस्रयोऽस्याः । ‘संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु’ (५.१.५८) इति कन् । त्रिका कूपस्य नेमौ स्यात्त्रिकं पृष्ठाधरे त्रये' इति विश्वमेदिन्यौ । द्वे कूपस्यान्तरे रज्ज्वादिधारणार्थदारुयन्त्रस्य ।