अमरकोशः


श्लोकः

गण्डूपद: किंचुलुकः निहाका गोधिका समे । रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः ॥ २२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गण्डूपद गण्डूपदः पुंलिङ्गः गण्ड्वो ग्रन्थयः पदान्यस्य ॥ समासः अकारान्तः
2 किंचुलक किञ्चुलकः पुंलिङ्गः डः कृत् अकारान्तः
3 निहाका निहाका स्त्रीलिङ्गः नियतं जहाति भुवम् । कन् उणादिः आकारान्तः
4 गोधिका गोधिका स्त्रीलिङ्गः गुध्यति । ण्वुल् कृत् आकारान्तः
5 रक्तपा रक्तपा स्त्रीलिङ्गः रक्तं पिबति । कः कृत् आकारान्तः
6 जलौका जलौका स्त्रीलिङ्गः जलमोकोऽस्याः । आकारान्तः
7 जलौकस् जलौकसः स्त्रीलिङ्गः सकारान्तः