किञ्चुलकः

सुधाव्याख्या

किंचिच्चुलुम्पति । ‘कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थम्’ (वा० ३.१.३५) इति वार्तिकनिर्दिष्टश्चुलुम्पधातुः । अन्येभ्योऽपि’ (वा० ३.२१०१) इति ड: । 'टेः’ (६.४.१४३) इति उकारमकारपकाराणां लोपः । ततः संज्ञायां कन्' (५.३.७५) ॥ त्रीणि केचुवा इति ख्यातस्य ।


प्रक्रिया

चुलुम्प् - कास्यनेकाज्ग्रहणं कर्तव्यम् (3.1.35) । वार्तिकम् ।
चुलुम्प् + ड - अन्येभ्योऽपि दृश्यते (3.2.101) । वार्तिकम् ।
चुलुम्प् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
चुल् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
चुल + कन् - संज्ञायां कन् 5.3.75
चुलक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
किं + चुलक + सु - कुगतिप्रादयः 2.2.18
किं + चुलक - सुपो धातुप्रातिपदिकयोः 2.4.71
किञ्चुलक - अनुस्वारस्य ययि परसवर्णः 8.4.58
किञ्चुलक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
किञ्चुलक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
किञ्चुलक + रु - ससजुषो रुः 8.2.66
किञ्चुलक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
किञ्चुलकः - खरवसानयोर्विसर्जनीयः 8.3.15