जलौकसः

सुधाव्याख्या

सान्तोऽपि । ‘जलोरगी जलोका तु जलौका च जलौकसि’ इति संसारावर्ताद्बहुवचनं प्रायिकम् । ‘जलौकापि जलोका स्याज्जलूका जलजन्तुका’ इति तारपालः ।