अमरकोशः


श्लोकः

महत्सूल्लोलकल्लोलौ स्यादावर्तेऽम्भसां भ्रमः । पृषन्ति बिन्दुपृषताः पुमांसो विप्रुष: स्त्रियाम् ॥ ६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उल्लोल उल्लोलः पुंलिङ्गः उत् लोडयति । अच् कृत् अकारान्तः
2 कल्लोल कल्लोलः पुंलिङ्गः कं जलम् । तस्य लोल उन्मादः । अकारान्तः
3 आवर्त आवर्तः पुंलिङ्गः आवर्तनम् । घञ् कृत् अकारान्तः
4 पृषत् पृषत् नपुंसकलिङ्गः पृषन्तीति । अत् उणादिः तकारान्तः
5 बिन्दु बिन्दुः पुंलिङ्गः बिन्दति । उः बाहुलकाद् उकारान्तः
6 पृषत पृषताः पुंलिङ्गः पर्षन्ति । अतच् उणादिः अकारान्तः
7 विप्रुष् विप्रुषाः स्त्रीलिङ्गः प्रुषु प्लुषु दाहे क्विप् कृत् षकारान्तः