पृषत्

सुधाव्याख्या

पृषन्तीति । पर्षति । ‘पृषु सेचने’ (भ्वा० प० से०) । पृषद्बृहन्महत्-’ (उ० २.८४) इति साधु । बहुवचनमतन्त्रम् । 'पृषन्मृगे पुमान्’ बिन्दौ न द्वयोः, पृषतोऽपि ना । अनयोश्च त्रिषु श्वेतबिन्दुयुक्तेऽप्युभाविमौ ।