उल्लोलः

सुधाव्याख्या

अथेति । उत् लोडयति । 'लोडृ उन्मादे’ (भ्वा० प० से०) । णिच् (३.१.२६) । पचाद्यच् (३.१.१३४) । डलयोरेकत्वम् । यत्तु-लोलयतीति लोलः । पचाद्यच् (३.१.१३४) । उद्गतश्चासौ लोलश्चेति उल्लोलः, इति स्वामी इति मुकुटः । तन्न । ऊर्ध्वं लोलयति इति स्वामिना विगृहीतत्वात् । स्वकृत निर्वचनाविशेषाच्च ।


प्रक्रिया