अमरकोशः


श्लोकः

नभस्वद्वातपवनपवमानप्रभञ्जनाः । प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ॥ ६३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नभस्वत् नभस्वान् पुंलिङ्गः नभोऽस्याश्रयत्वेनास्ति । मतुप् तद्धितः तकारान्तः
2 वात वातः पुंलिङ्गः वाति । तन् उणादिः अकारान्तः
3 पवन पवनः पुंलिङ्गः पुनाति । युच् उणादिः अकारान्तः
4 पवमान पवमानः पुंलिङ्गः पवते । शानन् कृत् अकारान्तः
5 प्रभञ्जन प्रभञ्जनः पुंलिङ्गः प्रकृष्टं भनक्ति । तत्पुरुषः समासः अकारान्तः
9 प्राण प्राणः पुंलिङ्गः प्रसरणेन, अपसरणेन, समन्तात्, ऊर्ध्वेन व्याप्त्या च अनित्यनेन । घञ् कृत् अकारान्तः
10 अपान अपानः पुंलिङ्गः प्रसरणेन, अपसरणेन, समन्तात्, ऊर्ध्वेन व्याप्त्या च अनित्यनेन । घञ् कृत् अकारान्तः
11 समान समानः पुंलिङ्गः प्रसरणेन, अपसरणेन, समन्तात्, ऊर्ध्वेन व्याप्त्या च अनित्यनेन । घञ् कृत् अकारान्तः
12 उदान उदानः पुंलिङ्गः प्रसरणेन, अपसरणेन, समन्तात्, ऊर्ध्वेन व्याप्त्या च अनित्यनेन । घञ् कृत् अकारान्तः
13 व्यान व्यानः पुंलिङ्गः प्रसरणेन, अपसरणेन, समन्तात्, ऊर्ध्वेन व्याप्त्या च अनित्यनेन । घञ् कृत् अकारान्तः