पवमानः

सुधाव्याख्या

पवते । `पूङ्यजोः शानन्’ (३.२.१२८) । ‘आने मुक्' (७.२.८२)


प्रक्रिया

धातुः - पूङ् पवने


पू - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पू + शानन् - पूङ्यजोः शानन् 3.2.128
पू + शानन् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
पू + आन - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
पू + शप् + आन - तिङ्शित्सार्वधातुकम् 3.4.113, कर्तरि शप्‌ 3.1.68
पू + अ + आन - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
पो + अ + आन - सार्वधातुकार्धधातुकयोः 7.3.84
पव् + अ + आन - एचोऽयवायावः 6.1.78
पव + मुक् + आन - आने मुक् 7.2.82
पव + म् + आन - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पवमान + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पवमान + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पवमान + रु - ससजुषो रुः 8.2.66
पवमान + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पवमानः - खरवसानयोर्विसर्जनीयः 8.3.15