अपानः

सुधाव्याख्या

प्रसरणेन, अपसरणेन, समन्तात्, ऊर्ध्वेन व्याप्त्या च अनित्यनेन । ‘हलश्च’ (३.३.१२१) इति घञ् इति मुकुटः । अन्ये तु - प्राणयति, अपानयति, समन्तादानयति । आनयतेः (ण्यन्तात् ‘अन प्राणने’ (अ० प० से०) इत्यस्मात् ड: (वा० ३.२.१०१) । अच् (३.१.१३४) वा–इत्याहुः । इमे प्राणादयः शरीरस्था वायवः । तत्र 'हृदि प्राणो, गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः । अन्नप्रवेशनं मूत्राद्युत्सगोंऽत्रविपाचनम् । भाषणादिनिमे घादि तद्वयापाराः क्रमादमी । हदि प्राणो, गुदेऽपानः, समानो नाभिसंस्थितः । उदानः, कण्ठदेशे स्याद्वयानः सर्वशरीरगः ॥ अत्र प्रवेशनं, मूत्राद्युत्सोंऽत्रविपाचनम् भाषणादिनिमेषाश्च तद्वयापाराः क्रमादमी । प्राण:’ इत्यत्र ‘अनितेः’ (८.४.१९) इति णत्वम् । 'प्राणो हृन्मारुते बोले काव्यजीवेऽनिले बले । पुंलिङ्गः, पूरिते वाच्यलिङ्ग, पुंभूम्नि चासुषु' । (‘अपानं तु गुदे क्लीबं, पुंसि स्यात्तस्य मारुते । 'उदानोऽप्युदावर्ते वायुभेदे भुजंगमे । ‘समानं सत्समैकेषु त्रिषु, ना नाभिमारुते') । प्रत्येकं देहस्थपञ्चवायूनाम् ।