अमरकोशः


श्लोकः

प्रचेता वरुणः पाशी यादसांपतिरप्पतिः। श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः ॥ ६१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रचेतस् प्रचेता पुंलिङ्गः प्रचेतयति । असुन् उणादिः सकारान्तः
2 वरुण वरुणः पुंलिङ्गः व्रियते वृणोति वा । उनन् उणादिः अकारान्तः
3 पाशिन् पाशी पुंलिङ्गः पाशोऽस्यास्ति । इनि तद्धितः नकारान्तः
4 यादसांपति यादसांपतिः पुंलिङ्गः यादसां पतिः । तत्पुरुषः समासः इकारान्तः
5 अप्पति अप्पतिः पुंलिङ्गः अपां पतिः । तत्पुरुषः समासः इकारान्तः
6 श्वसन श्वसनः पुंलिङ्गः श्वसित्यनेन । ल्युट् कृत् अकारान्तः
7 स्पर्शन स्पर्शनः पुंलिङ्गः स्पृशति । युच् उणादिः अकारान्तः
8 वायु वायुः पुंलिङ्गः वाति । उण् उणादिः उकारान्तः
9 मातरिश्वन् मातरिश्वा पुंलिङ्गः मातरि अन्तरिक्षे श्वयति संचरति । तत्पुरुषः समासः नकारान्तः
10 सदागति सदागतिः पुंलिङ्गः सदा गतिरस्य बहुव्रीहिः समासः इकारान्तः