मातरिश्वा

सुधाव्याख्या

‘मातरि’ इति सप्तम्यन्तप्रतिरूपकम् । मातरि अन्तरिक्षे श्वयति संचरति । 'टुओश्वि गतिवृद्धयोः (भ्वा० प० से०) । यद्वा मातरि जनन्यां श्वयति वर्धते सप्तसप्तकरूपत्वात् । 'श्वन्नुक्षन्-'(उ० १.१५९) इति निपातनात्सप्तम्या अलुक् ॥


प्रक्रिया

धातुः - टुओँश्वि गतिवृद्ध्योः


श्वि - उपदेशेऽजनुनासिक इत् 1.3.2, आदिर्ञिटुडवः 1.3.5 तस्य लोपः 1.3.9
मातृ + ङि + श्वि + कनिन् - उपपदमतिङ् 2.2.19, श्वन्नुक्षन्पूषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विश्वप्सन्परिज्जन्मातरिश्वन्मघवन्निति (१.१५९) । उणादिसूत्रम् ।
मातरि + श्व् + कनिन् - निपातनात् ।
मातरि + श्व् + अन् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मातरिश्वन् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मातरिश्वन् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मातरिश्वान् + स् - सर्वनामस्थाने चासम्बुद्धौ 6.4.8
मातरिश्वान् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
मातरिश्वा - नलोपः प्रातिपदिकान्तस्य 8.2.7