प्रचेता

सुधाव्याख्या

प्रचेता इत्यादि । प्रचेतयति । प्रकृष्टं चेतोऽस्येति वा । चिती संज्ञाने' (भ्वा० प० से०) । असुन् (उ० ४.१८९) । 'प्रचेताः पाशिनि मुनौ ना प्रकृष्टहृदि त्रिषु' ।


प्रक्रिया

धातुः - चितीँ संज्ञाने


चित् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्र + चित् + असुन् - सर्वधातुभ्योऽसुन् (४.१८९) । उणादिसूत्रम् ।
प्र + चित् + अस् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्र + चेत् + अस् - पुगन्तलघूपधस्य च 7.3.86
प्रचेतस् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रचेतस् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रचेतस् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
प्रचेतास् - अत्वसन्तस्य चाधातोः 6.4.14
प्रचेता + रु - ससजुषो रुः 8.2.66
प्रचेता + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रचेताः - खरवसानयोर्विसर्जनीयः 8.3.15