अमरकोशः


श्लोकः

किंनरेशो वैश्रवणः पौलस्त्यो नरवाहनः । यक्षैकपिङ्गैडविडश्रीदपुण्यजनेश्वराः ॥ ६९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 किंनरेश किन्नरेशः पुंलिङ्गः किंनराणामीशः तत्पुरुषः समासः अकारान्तः
2 वैश्रवण वैश्रवणः पुंलिङ्गः विश्रवसोऽपत्यम् । अण् तद्धितः अकारान्तः
3 पौलस्त्य पौलस्त्यः पुंलिङ्गः पुलस्तेगोत्रापत्यम् । यञ् तद्धितः अकारान्तः
4 नरवाहन नरवाहनः पुंलिङ्गः नरो वाहनमस्य । बहुव्रीहिः समासः अकारान्तः
5 यक्ष यक्षः पुंलिङ्गः ईं लक्ष्मीमक्ष्णोति व्याप्नोति । अण् कृत् अकारान्तः
6 एकपिङ्ग एकपिङ्गः पुंलिङ्गः एकं पिङ्गमस्य । बहुव्रीहिः समासः अकारान्तः
7 ऐडविड ऐडविडः पुंलिङ्गः इड विडोऽपत्यम् । अण् तद्धितः अकारान्तः
8 श्रीद श्रीदः पुंलिङ्गः श्रियं दयते, ददाति, वा । तत्पुरुषः समासः अकारान्तः
9 पुण्यजनेश्वर पुण्यजनेश्वरः पुंलिङ्गः पुण्यजनानामीश्वरः । तत्पुरुषः समासः अकारान्तः