ऐडविडः

सुधाव्याख्या

इडविडोऽपत्यम् । ‘तस्यापत्यम्' (४.१.९२) इत्यण् ।। डल योरेकत्वस्मरणाद् ‘एलविलः अपि । इलविलाया अपत्यमिति वा विग्रहः । तत्र ‘अवृद्धाभ्यो नदीमानुषी-' (४.१.११३) इत्यण् । इडविलास्ति मातृत्वेनास्य । ज्योत्स्नादित्वात् (वा० ५.२.१०३) अण् इति वा ।।