यक्षः

सुधाव्याख्या

ईं लक्ष्मीमक्ष्णोति व्याप्नोति । 'अक्षू व्याप्तौ (भ्वा प० से०) । ‘कर्मण्यण्' (३.२.१) । यक्ष्यते ‘यक्ष पूजायाम्’ (चु० अ० से०) । ‘अकर्तरि (३.३.१९) इति घञ् । ‘पंसि-'(३.३.११८) इति घो वा । यजति शिवम् । इज्यते लोकेन वा । बाहुलकात्सो वा ।।