अमरकोशः


श्लोकः

पञ्चैते देवतरवो मन्दारः पारिजातकः । संतानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ ५० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मन्दार मन्दारः पुंलिङ्गः मन्दयते मोदयति । बहुव्रीहिः समासः अकारान्तः
2 पारिजातक पारिजातकः पुंलिङ्गः पारिणोऽब्धेर्जातः । कन् तद्धितः अकारान्तः
3 संतान सन्तानः पुंलिङ्गः सम्यक् तनोति पुष्पाणि । तत्पुरुषः समासः अकारान्तः
4 कल्पवृक्ष कल्पवृक्षः पुंलिङ्गः कल्पः संकल्पितोऽर्थः, तस्य वृक्षः । तत्पुरुषः समासः अकारान्तः
5 हरिचन्दन हरिचन्दनम् पुंलिङ्गः, नपुंसकलिङ्गः हरेश्चन्दन: । तत्पुरुषः समासः अकारान्तः