मन्दारः

सुधाव्याख्या

मन्दयते मोदयति । ‘मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु' (भ्वा० प० से०) । 'अङ्गिमदिमन्दिभ्य आरन्’ (उ० ३.१३४) । मन्दा आरा धारा अस्य, सरलत्वादिति वा । (‘मन्दारः स्यात्सुरद्रुमे) । पारिभद्रेऽर्कपर्णे च मन्दारो हस्तिधूर्तयोः') ।