अमरकोशः


श्लोकः

स्यात्प्रासादो वैजयन्तो जयन्तः पाकशासनिः । ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः॥ ४६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वैजयन्त वैजयन्तः पुंलिङ्गः वैजयन्त्यः पताकाः सन्त्यस्य । अच् तद्धितः अकारान्तः
2 जयन्त जयन्तः पुंलिङ्गः जयति । झच् उणादिः अकारान्तः
3 पाकशासनि पाकशासनिः पुंलिङ्गः पाकशासनस्यापत्यम् । इञ् तद्धितः इकारान्तः
4 ऐरावत ऐरावतः पुंलिङ्गः इरा उदकानि सन्त्यस्मिन् । मतुप् तद्धितः अकारान्तः
5 अभ्रमातङ्ग अभ्रमातङ्गः पुंलिङ्गः अभ्रं मेघः तदात्मको मातङ्गः । तत्पुरुषः समासः अकारान्तः
6 ऐरावण ऐरावणः पुंलिङ्गः इरया उदकेन वणति । अण् तद्धितः अकारान्तः
7 अभ्रमुवल्लभ अभ्रमुवल्लभः पुंलिङ्गः अभ्रे खे माति, न भ्राम्यति वा, मन्थरगामिनीत्वात् । तत्पुरुषः समासः अकारान्तः