ऐरावणः

सुधाव्याख्या

इरया उदकेन वणति । “वण शब्दे’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । इरावणः । ततः प्रज्ञाद्यण् (५.४.३८) । इरा सुरा वनमुदकं यस्मिन् । ‘पूर्वपदात् (८.४.३) इति णत्वम् । इरावणे भवः । ‘तत्र भवः । (४.३.५३) इत्यण् । स्वामी तु-इरावणे भवः । तत्र भवः' (४.३.५३) इत्यण् । विभाषौषधि-' (८.४.६) इति वा णत्वम्-इति । तत्र । ‘ऐरावन' इत्यस्यापि प्राप्तेः ।


प्रक्रिया