ऐरावतः

सुधाव्याख्या

इरा उदकानि सन्त्यस्मिन् । मतुप् (५.२.९४) । इरावत्यब्धौ भवः । ‘तत्र भवः” (४.३.५३) इत्यण् । ('ऐरावतोऽभ्रमातङ्गे नारङ्गे लकुचद्रु । नागभेदे च पुंसि स्याद्विद्युतद्भेदयोः स्त्रियाम् । नपुंसकं महेन्द्रस्य ऋजुदीर्घशरासने') ।


प्रक्रिया

इरा + जस् + मतुप् - तदस्यास्त्यस्मिन्निति मतुप्‌ 5.2.94
इरा + मतुप् - सुपो धातुप्रातिपदिकयोः 2.4.71
इरा + मत् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इरा + वत् - मादुपधायाश्च मतोर्वोऽयवादिभ्यः 8.2.9
इरावत् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
इरा + व न् त् + सु - उगिदचां सर्वनामस्थानेऽधातोः 7.1.70
इरा + व न् त् स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इरा + व न् त् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
इरा + व न् - संयोगान्तस्य लोपः 8.2.23
इरावान् - सर्वनामस्थाने चासम्बुद्धौ 6.4.8
इरावत् + ङि + अण् - तत्र भवः 4.3.53
इरावत् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
इरावत् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
ऐरावत् + अ - तद्धितेष्वचामादेः 7.2.117
ऐरावत + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ऐरावत + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ऐरावत + रु - ससजुषो रुः 8.2.66
ऐरावत + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ऐरावतः - खरवसानयोर्विसर्जनीयः 8.3.15