अमरकोशः


श्लोकः

गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः । व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ॥ ३४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गङ्गाधर गङ्गाधरः पुंलिङ्गः गङ्गाया धरः । तत्पुरुषः समासः अकारान्तः
2 अन्धकरिपु अन्धकरिपुः पुंलिङ्गः अन्धकस्य दैत्यस्य रिपुः । तत्पुरुषः समासः उकारान्तः
3 क्रतुध्वंसिन् क्रतुध्वंसी पुंलिङ्गः क्रतुं ध्वंसयति । तत्पुरुषः समासः नकारान्तः
4 वृषध्वज वृषध्वजः पुंलिङ्गः वृषो ध्वजश्चिह्नमस्य । बहुव्रीहिः समासः अकारान्तः
5 व्योमकेश व्योमकेशः पुंलिङ्गः व्योम्निकेशा यस्य । बहुव्रीहिः समासः अकारान्तः
6 भव भवः पुंलिङ्गः भवति भवते वा सर्वम् । अच् कृत् अकारान्तः
7 भीम भीमः पुंलिङ्गः बिभेत्यस्मात् । मक् उणादिः अकारान्तः
8 स्थाणु स्थाणुः पुंलिङ्गः तिष्ठति । णु उणादिः उकारान्तः
9 रुद्र रुद्रः पुंलिङ्गः रोदयति । रक् उणादिः अकारान्तः
10 उमापति उमापतिः पुंलिङ्गः उमायाः पतिः । तत्पुरुषः समासः इकारान्तः