भवः

सुधाव्याख्या

भवति भवते वा सर्वम् । भू प्राप्तौ’ (चु० अ० से०) । पचाद्यच् (३.१.१३४) यतु भवत्यस्माद्विश्वम् । बाहुलकाद् (३.३.११३) अप् । विश्वमस्त्यस्मिन् इति वा । अस्त्यादेशाद्भुवः (२.४.५२) अप् (३.३.५७) श्रिणीभुवः-'(३.३.२४) इत्यत्र श्रिणीसाहचर्याद्भुवो भौवादिकादेव घञ् — इति मुकुटः । तन्न । बाहुलकस्यागतिकगतित्वात् । तत्र चोक्तरीत्या गतिसम्भवात् । अधिकरणे ल्युटो बाधकसत्वादपोऽसम्भवात् अजब्भ्यां स्त्रीखलनाः (३.३.१२६) इति वार्तिकोक्तेः साहचर्याभ्युपगमोऽप्यनुचितः । गातिस्था-(२,४. ७७) इत्यत्रापि पासाहचर्यादस्त्यादेश स्याग्रहणप्रसङ्गात् । ’भवः क्षेमेशसंसारे सत्तायां प्राप्तिजन्मनोः) ॥