रुद्रः

सुधाव्याख्या

रोदयति । 'रोदेर्णिलुक् च (उ० २.२२) इति रक् ।।


प्रक्रिया

धातुः - रुदिँर् अश्रुविमोचने


रुद् - इर इत्संज्ञा वक्तव्या । वार्तिकम् ।
रुद् + णिच् - हेतुमति च 3.1.26
रुद्+रक् - रोदेर्णिलुक् च (२.२२) । उणादिसूत्रम् ।
रुद्+र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
रुद्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
रुद्र + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रुद्र + रु - ससजुषो रुः 8.2.66
रुद्र + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रुद्रः - खरवसानयोर्विसर्जनीयः 8.3.15