अमरकोशः


श्लोकः

उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः । पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः ॥ २० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उपेन्द्र उपेन्द्रः पुंलिङ्गः इन्द्रमुपगतोऽनुजत्वात् उपेन्द्रः । तत्पुरुषः समासः अकारान्तः
2 इन्द्रावरज इन्द्रावरजः पुंलिङ्गः इन्द्रस्यावरं जातः । कृत् अकारान्तः
3 चक्रपाणि चक्रपाणिः पुंलिङ्गः चक्रं पाणौ यस्य । तत्पुरुषः समासः इकारान्तः
4 चतुर्भुज चतुर्भुजः पुंलिङ्गः चत्वारो भुजा यस्या । बहुव्रीहिः समासः अकारान्तः
5 पद्मनाभ पद्मनाभः पुंलिङ्गः पद्मं नाभौ यस्य । बहुव्रीहिः समासः अकारान्तः
6 मधुरिपु मधुरिपुः पुंलिङ्गः मधोरसुरस्य रिपुः । तत्पुरुषः समासः उकारान्तः
7 वासुदेव वासुदेवः पुंलिङ्गः वसुदेवस्यापत्यम् । अण् तद्धितः अकारान्तः
8 त्रिविक्रम त्रिविक्रमः पुंलिङ्गः त्रिषु लोकेषु गुणेषु वा, त्रयो वा विक्रमाः पादविन्यासा यस्य । बहुव्रीहिः समासः अकारान्तः