चक्रपाणिः

सुधाव्याख्या

चक्रं पाणौ यस्य । ‘प्रहरणार्थेभ्यः (वा० २.२.३६) इति सप्तम्याः परत्वम् ॥


प्रक्रिया

पाणि+ङि चक्र+सु - अनेकमन्यपदार्थे 2.2.24
चक्र+सु पाणि+ङि - प्रहरणार्थेभ्यश्च परे निष्ठासप्तम्यौ भवत इति वक्तव्यम् २.२.३६ । वार्तिकम् ।
चक्रपाणि - सुपो धातुप्रातिपदिकयोः 2.4.71
चक्रपाणि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
चक्रपाणि + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चक्रपाणि + रु - ससजुषो रुः 8.2.66
चक्रपाणि + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चक्रपाणिः - खरवसानयोर्विसर्जनीयः 8.3.15