अमरकोशः


श्लोकः

सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः । समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः ॥ १३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सर्वज्ञ सर्वज्ञः पुंलिङ्गः सर्वं जानाति । कृत् अकारान्तः
2 सुगत सुगतः पुंलिङ्गः शोभनं गतं ज्ञानमस्य । बहुव्रीहिः समासः अकारान्तः
3 बुद्ध बुद्धः पुंलिङ्गः प्रशस्ता बुद्धिरस्य । अच् तद्धितः अकारान्तः
4 धर्मराज धर्मराजः पुंलिङ्गः धर्मेण राजते । तत्पुरुषः समासः अकारान्तः
5 तथागत तथागतः पुंलिङ्गः तथा सत्यं गतं ज्ञानं यस्य । बहुव्रीहिः समासः अकारान्तः
6 समन्तभद्र समन्तभद्रः पुंलिङ्गः समन्तं भद्रमस्य सः । बहुव्रीहिः समासः अकारान्तः
7 भगवत् भगवान् पुंलिङ्गः भगं माहात्म्यमस्यास्ति । मतुप् तद्धितः तकारान्तः
8 मारजित् मारजित् पुंलिङ्गः मारं कामं जयति । तत्पुरुषः समासः तकारान्तः
9 लोकजित् लोकजित् पुंलिङ्गः लोकं जयति । तत्पुरुषः समासः तकारान्तः
10 जिन जिनः पुंलिङ्गः जयति जिनः । नक् उणादिः अकारान्तः