सर्वज्ञः

सुधाव्याख्या

सर्वज्ञ इत्यादि । सर्वं जानाति । ‘ज्ञा अवबोधने' (क्र्या० प० अ०) । ‘आतोऽनुपसर्गे क:' (३.२.३) । यद्वा सर्वे ज्ञा यस्य । स्वात्मनः सर्वस्यापरोक्षत्वात् । यः साक्षादपरोक्षात्' इति श्रुतेः । यद्वा सर्वे ज्ञा यस्मात् । ‘यथाऽग्ने: क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति, एवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एव आत्मानो व्युच्चरन्ति' इति श्रुतेः । यद्वा सर्वे ज्ञा येन । ‘तस्य भासा सर्वमिदं विभाति' इतिः श्रुतेः । (‘सर्वज्ञस्तु जिनेन्द्र स्यात्सुगते शङ्करेऽपि च’) ॥