जिनः

सुधाव्याख्या

जयति जिनः । ‘इण् षिञ्जिदीङुष्यविभ्यो नक्’ (उ० ३.२) । ‘जिनाति' इति स्वामिमुकुटौ । तन्न । ‘अङ्गस्य’ ‘हल:' (६.४.१,२) इति दीर्घप्रसङ्गात् । (‘जिनोऽर्हति च बुद्धे च पुंसि स्याज्जित्वरे त्रिषु') ॥