ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः । हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः ॥ १६ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | ब्रह्मन् | ब्रह्मा | पुंलिङ्गः | बृंहति वर्धयति प्रजा इति ब्रह्मा । | मनिन् | उणादिः | नकारान्तः |
2 | आत्मभू | आत्मभूः | पुंलिङ्गः | आत्मनो विष्णोः सकाशात्, आत्मना स्वयमेव वा भवति । | तत्पुरुषः | समासः | ऊकारान्तः |
3 | सुरज्येष्ठ | सुरज्येष्ठः | पुंलिङ्गः | सुरेषु ज्येष्ठः । | तत्पुरुषः | समासः | अकारान्तः |
4 | परमेष्ठिन् | परमेष्ठी | पुंलिङ्गः | परमे व्योमनि, चिदाकाशे, ब्रह्मपदे, वा तिष्ठति । | तत्पुरुषः | समासः | नकारान्तः |
5 | पितामह | पितामहः | पुंलिङ्गः | लोकपितॄणां मरीच्यादीनामर्यमादीनां वा पिता पितामहः । | डामहच् | तद्धितः | अकारान्तः |
6 | हिरण्यगर्भ | हिरण्यगर्भः | पुंलिङ्गः | हिरण्यं हिरण्यमण्डं तस्य गर्भ इव । | तत्पुरुषः | समासः | अकारान्तः |
7 | लोकेश | लोकेशः | पुंलिङ्गः | लोकानामीशः । | तत्पुरुषः | समासः | अकारान्तः |
8 | स्वयंभू | स्वयंभूः | पुंलिङ्गः | स्वयमेव भवति । | तत्पुरुषः | समासः | ऊकारान्तः |
9 | चतुरानन | चतुराननः | पुंलिङ्गः | चत्वार्याननान्यस्य । | बहुव्रीहिः | समासः | अकारान्तः |