ब्रह्मा

सुधाव्याख्या

ब्रह्मेत्यदि । बृंहति वर्धयति प्रजा इति ब्रह्मा । ‘बृहि वृद्धौ (भ्वा० प० से०) । अन्तर्भावितण्यर्थ: । ‘बृंहेर्नोऽच्च' (उ० ४.१४६) इति मनिन् । धातोर्नस्यादादेशः। बृंहति वर्धत इति वा । यत्तु-व्योमादित्व (उ० ४.१५१) कल्पनमस्य मुकुटेन कृतम् । तत्तूक्तसूत्रास्मरणमूलकम् । ब्रह्म तत्त्वतपोवेदे न द्वयोः पुंसि वेधसि । ऋत्विग्योगभिदोर्विप्रे चाध्यात्मज्ञान- योस्तथा’) ॥