परमेष्ठी

सुधाव्याख्या

परमे व्योमनि, चिदाकाशे, ब्रह्मपदे, वा तिष्ठति । ‘परमे स्थ: कित्' (उ० ४.१०) इतीनिः । ‘तत्पुरुषे कृति-’ (६.३.१४) इत्यलुक् । ‘स्थास्थिन्स्थॄणाम्’ (वा० ८.३.९७) इति षत्वम् ॥


प्रक्रिया

धातुः - ष्ठा गतिनिवृत्तौ


स्था - धात्वादेः षः सः 6.1.64, निमित्तापाये नैमित्तिकस्याप्यपायः ।
परम+ङि स्था+इनि - परमे कित् (४.१०) । उणादिसूत्रम् ।
परम+ङि+स्था+इनि - तत्पुरुषे कृति बहुलम् 6.3.14
परम + इ + स्था + इनि - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
परमे+स्था+इन् - आद्गुणः 6.1.87
परमे+स्थ्+इन् - आतो लोप इटि च 6.4.64
परमे+ष् थ्+इन् - स्थास्थिन्स्थॄणामिति वक्तव्यम् ८.३.९७। वार्तिकम्
परमेष्ठ् इन् - ष्टुना ष्टुः 8.4.41
परमेष्ठिन् सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
परमेष्ठीन् सु - सौ च 6.4.13
परमेष्ठीन् स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
परमेष्ठीन् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
परमेष्ठी - नलोपः प्रातिपदिकान्तस्य 8.2.7