अमरकोशः


श्लोकः

विष्वक् संतमसं नागाः काद्रवेयाः तदीश्वरः । शेषोऽनन्तः वासुकिस्तु सर्पराजोऽथ गोनसे ॥ ४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 संतमस सन्तमसम् नपुंसकलिङ्गः विष्वक् सर्वतः तमः समन्तात्तम: । अच् अकारान्तः
2 नाग नागः पुंलिङ्गः नगे भवाः । अण् तद्धितः अकारान्तः
3 काद्रवेय काद्रवेयः पुंलिङ्गः कद्रवा अपत्यानि । ढक् तद्धितः अकारान्तः
4 शेष शेषः पुंलिङ्गः शिष्यते । घञ् कृत् अकारान्तः
5 अनन्त अनन्तः पुंलिङ्गः न अन्तोऽस्य । नञ् समासः समासः अकारान्तः
6 वासुकि वासुकिः पुंलिङ्गः वसु रत्नं के मूर्ध्नि यस्य । इञ् तद्धितः इकारान्तः
7 सर्पराज सर्पराजः पुंलिङ्गः सर्पाणां राजा । तत्पुरुषः समासः अकारान्तः
8 गोनस गोनसः पुंलिङ्गः गोरिव नासिका यस्य । अच् अकारान्तः