नागः

सुधाव्याख्या

नागा इति । नगे भवाः । तत्र भवः' (४.३.५३) इत्यण् । यद्वा-न गच्छन्ति । अगाः । न अगाः। ‘सुप्सुपा' (२.१.४) इति समासः । अनञ्त्वान्न नलोपः । (‘नागो मतङ्गजे सर्पे पुंनागे नागकेसरे । क्रूराचारे नागदन्ते मुस्तके वारिदेऽपि च । देहानिलविशेषे च श्रेष्ठे स्यादुत्तरस्थितः। नागं रङ्गे सीसपत्रे स्त्रीबन्धे कारणान्तरे’ इति हैमः ।