अमरकोशः


श्लोकः

दारदो वत्सनाभश्च विषभेदा अमी नव । विषवैद्यो जाङ्गुलिको व्यालग्राह्यहितुण्डिकः ॥ ११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दारद दारदः पुंलिङ्गः दरदि देशे भवः । अण् तद्धितः अकारान्तः
2 वत्सनाभ वत्सनाभः पुंलिङ्गः वत्सान् नभ्नाति । अण् कृत् अकारान्तः
3 विषवैद्य विषवैद्यः पुंलिङ्गः विद्यामधीते वेत्ति वा । अण् तद्धितः अकारान्तः
4 जाङ्गुलिक जाङ्गुलिकः पुंलिङ्गः जाङ्गुलीं विषविद्यामधीते वेद वा । ठक् तद्धितः अकारान्तः
5 व्यालग्राहिन् व्यालग्राही पुंलिङ्गः व्यालं गृह्णाति। णिनिः कृत् नकारान्तः
6 अहितुण्डिक अहितुण्डिकः पुंलिङ्गः अहेस्तुण्डं मुखम् । तेन दीव्यति । ठक् तद्धितः अकारान्तः