अमरकोशः
दारदः
सुधाव्याख्या
दरदि देशे भवः । दारदो विषभेदे स्यात्पारदे हिङ्गुले पुमान्'
प्रक्रिया
दरद् + ङि + अण्
-
तत्र भवः 4.3.53
दरद् + अण्
-
सुपो धातुप्रातिपदिकयोः 2.4.71
दरद् + अ
-
हलन्त्यम् 1.3.3
,
तस्य लोपः 1.3.9
दारद् + अ
-
तद्धितेष्वचामादेः 7.2.117
दारद + सु
-
स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् 4.1.2
दारद + स्
-
उपदेशेऽजनुनासिक इत् 1.3.2
,
तस्य लोपः 1.3.9
दारद + रु
-
ससजुषो रुः 8.2.66
दारद + र्
-
उपदेशेऽजनुनासिक इत् 1.3.2
,
तस्य लोपः 1.3.9
दारदः
-
खरवसानयोर्विसर्जनीयः 8.3.15
Find words details involved in this Prakriya