अमरकोशः


श्लोकः

चतुर्विधमिदं वाद्यवादित्रातोद्यनामकम् । मृदङ्गा मुरजा भेदास्त्वङ्क्यालिङ्ग्योर्ध्वकास्त्रयः ॥ ५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वाद्य वाद्यम् अकारान्तः
2 वादित्र वादित्रम् नपुंसकलिङ्गः णित्रन् उणादिः अकारान्तः
3 आतोद्य आतोद्यम् नपुंसकलिङ्गः आसमन्तात्तुद्यते ताड्यते । ण्यत् कृत् अकारान्तः
4 मृदङ्ग मृदङ्गः पुंलिङ्गः मृद्यन्ते । कित् उणादिः अकारान्तः
5 मुरज मुरजः पुंलिङ्गः मुराद्वेष्टनाज्जातः । डः तद्धितः अकारान्तः
6 अङ्क्य अङ्क्यः पुंलिङ्गः अङ्के उत्सङ्गे भवः । यत् कृत् अकारान्तः
7 आलिङ्ग्य आलिङ्ग्यः पुंलिङ्गः आलिङ्ग्यते । ण्यत् कृत् अकारान्तः
8 ऊर्ध्वक ऊर्ध्वकः पुंलिङ्गः ऊर्ध्वः कायति शब्दायते । कः अकारान्तः