मुरजः

सुधाव्याख्या

मुराद्वेष्टनाज्जातः । 'मुर संवेष्टने' (तु० प० से०) तुदादिः । पञ्चम्याम् (३.२.९८) इति डः । मुरं वेष्टनं जातमस्येति वा ॥


प्रक्रिया

धातुः - मुरँ संवेष्टने परिवेष्टने च


मुर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मुर् + क - इगुपधज्ञाप्रीकिरः कः 3.1.135
मुर - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
मुर ङसि जनी प्रदुर्भावे - पञ्चम्यामजातौ 3.2.98
मुर + जनी + ड - सुपो धातुप्रातिपदिकयोः 2.4.71
मुर + जन् + ड - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मुर + जन् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
मुर + ज् + अ - डित्वसामर्थ्यादभस्यापि टेर्लोपः।
मुरज + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मुरज + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मुरज + रु - ससजुषो रुः 8.2.66
मुरज + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मुरजः - खरवसानयोर्विसर्जनीयः 8.3.15