ऊर्ध्वकः

सुधाव्याख्या

ऊर्ध्वः कायति शब्दायते । 'कै शब्दे’ (भ्वा० प० से०) । 'सुपि' (३.२.४ योगविभागेन) इति कः । तदुक्तम् हरीतक्याकृतिस्त्वङ्क्यो यवमध्यस्तथोर्ध्वकः । आलिङ्ग्यश्चैव गोपुच्छो मध्यदक्षिणवामगा:’ इति । ऊर्ध्वशब्दं निर्वकारमपि केचित्पठन्ति ॥