अमरकोशः


श्लोकः

हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः । द्रवकेलिपरीहासाः क्रीड़ा खेला च नर्म च ॥ ३२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 हेला हेला स्त्रीलिङ्गः घञ् कृत् आकारान्तः
2 लीला लीला स्त्रीलिङ्गः लयनम् । क्विप् कृत् आकारान्तः
3 द्रव द्रवः पुंलिङ्गः द्रवणम् । अप् कृत् अकारान्तः
4 केलि केलिः पुंलिङ्गः, स्त्रीलिङ्गः केलनम् । इन् उणादिः इकारान्तः
5 परीहास परीहासः पुंलिङ्गः परिहसनम् । घञ् कृत् अकारान्तः
6 क्रीडा क्रीडा स्त्रीलिङ्गः क्रीडनम् । अः कृत् आकारान्तः
7 खेला खेला स्त्रीलिङ्गः खेलनम् । अः कृत् आकारान्तः
8 नर्मन् नर्म नपुंसकलिङ्गः नरणम् । मनिन् कृत् नकारान्तः